All Astrology Solutions

All Astrology Solutions

All Astrology Solutions
Shri Kilaka Stotra

॥ श्री कीलक स्तोत्र ॥
॥ Shri Kilaka Stotra ॥

॥ ॐ गण गणपतये नमः ॥

ॐ अस्य श्रीकीलकमन्त्रस्य शिवऋषिः, अनुष्टुप् छन्दः
श्रीमहासरस्वती देवता, श्रीजगदम्बाप्रीत्यर्थं सप्तशती-
पाठाङ्गत्वेन जपे विनियोगः । ॐ नमश्चण्डिकायै ।
मार्कण्डेय उवाच । ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे ।
श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे ॥ १॥

सर्वमेतद्विजानीयान्मन्त्राणामपि कीलकम् ।
सोऽपि क्षेममवाप्नोति सततं जप्यतत्परः ॥ २॥
सिद्ध्यन्त्युच्चाटनादीनि कर्माणि सकलान्यपि ।
एतेन स्तुवतां देवीं स्तोत्रवृन्देन भक्तितः ॥ ३॥

न मन्त्रो नौषधं तस्य न किञ्चिदपि विद्यते ।
विना जप्येन सिद्ध्येत्तु सर्वमुच्चाटनादिकम् ॥ ४॥
समग्राण्यपि सेत्स्यन्ति लोकशङ्कामिमां हरः ।
कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम् ॥ ५॥

स्तोत्रं वै चण्डिकायास्तु तच्च गुह्यं चकार सः ।
समाप्नोति स पुण्येन तां यथावन्निमन्त्रणाम् ॥ ६॥
सोऽपि क्षेममवाप्नोति सर्वमेव न संशयः ।
कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः ॥ ७॥

ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति ।
इत्थं रूपेण कीलेन महादेवेन कीलितम् ॥ ८॥
यो निष्कीलां विधायैनां चण्डीं जपति नित्यशः ।
स सिद्धः स गणः सोऽथ गन्धर्वो जायते ध्रुवम् ॥ ९॥

न चैवापाटवं तस्य भयं क्वापि न जायते ।
नापमृत्युवशं याति मृते च मोक्षमाप्नुयात् ॥ १०॥
ज्ञात्वा प्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति ।
ततो ज्ञात्वैव सम्पूर्णमिदं प्रारभ्यते बुधैः ॥ ११॥

सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने ।
तत्सर्वं तत्प्रसादेन तेन जप्यमिदम् शुभम् ॥ १२॥
शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः ।
भवत्येव समग्रापि ततः प्रारभ्यमेव तत् ॥ १३॥

ऐश्वर्यं तत्प्रसादेन सौभाग्यारोग्यमेव च ।
शत्रुहानिः परो मोक्षः स्तूयते सा न किं जनैः ॥ १४॥
चण्डिकां हृदयेनापि यः स्मरेत् सततं नरः ।
हृद्यं काममवाप्नोति हृदि देवी सदा वसेत् ॥ १५॥
अग्रतोऽमुं महादेवकृतं कीलकवारणम् ।
निष्कीलञ्च तथा कृत्वा पठितव्यं समाहितैः ॥ १६॥

॥ इति श्री कीलक स्तोत्रं समाप्तम् ॥

आज का पंचांग ( Tue 20 May 2025 )

स्थान

अमृतसर, पंजाब, भारत

तिथि

  • सप्तमी, 19 May 2025 06:12:09 से 20 May 2025 05:52:14 तक
  • अष्टमी, 20 May 2025 05:52:15 से 21 May 2025 04:55:59 तक
  • नवमी, 21 May 2025 04:56:00 से 22 May 2025 03:22:25 तक

वार

मंगलवार

नक्षत्र

  • धनिष्ठा, 19 May 2025 19:29:57 से 20 May 2025 19:32:26 तक
  • शतभिषा, 20 May 2025 19:32:27 से 21 May 2025 18:58:14 तक

सूर्यौदय

20 May 2025 05:35:14

सूर्यास्त

20 May 2025 19:19:09

चंद्रोदय

20 May 2025 01:00:10

चंद्रस्थ

21 May 2025 13:02:45

योग

इन्द्र

20 May 2025 04:35:47 से 21 May 2025 02:50:12 तक

वैधृति

21 May 2025 02:50:13 से 22 May 2025 00:34:34 तक

शुभ काल

अभिजीत मुहूर्त

  • 20 May 2025 11:59:39 से 20 May 2025 12:54:34 तक

अमृत काल

  • 20 May 2025 09:15:57 से 20 May 2025 10:52:06 तक

ब्रह्म मुहूर्त

  • 20 May 2025 03:58:51 से 20 May 2025 04:46:49 तक

अशुभ काल

राहू

  • 20 May 2025 15:53:08 से 20 May 2025 17:36:07 तक

यम गण्ड

  • 20 May 2025 09:01:12 से 20 May 2025 10:44:11 तक

कुलिक

  • 20 May 2025 12:27:10 से 20 May 2025 14:10:09 तक

दुर्मुहूर्त

  • 20 May 2025 08:19:59 से 20 May 2025 09:14:54 तक
  • 20 May 2025 23:25:21 से 21 May 2025 00:06:23 तक

वर्ज्यम्

  • 21 May 2025 02:34:27 से 21 May 2025 04:08:27 तक