All Astrology Solutions

All Astrology Solutions

All Astrology Solutions
Shri Kanakdhara Stotra

॥ श्री कनकधारा स्तोत्र ॥
॥ Shri Kanakdhara Stotra ॥

॥ ॐ गण गणपतये नमः ॥

अङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।
अङ्गीकृताखिलविभूतिरपाङ्गलीला माङ्गल्यदास्तु मम मङ्गळदेवतायाः ॥ १॥
मुग्धा मुहुर्विदधती वदने मुरारेः प्रेमत्रपाप्रणिहितानि गतागतानि ।
माला दृशोर्मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागरसंभवायाः ॥ २॥

आमीलिताक्षमधिगम्य मुदा मुकुन्दं आनन्दकन्दमनिमेषमनङ्गतन्त्रम् ।
आकेकरस्थितकनीनिकपक्ष्मनेत्रं भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥ ३॥
बाह्वन्तरे मधुजितः श्रितकौस्तुभे या हारावलीव हरिनीलमयी विभाति ।
कामप्रदा भगवतोऽपि कटाक्षमाला कल्याणमावहतु मे कमलालयायाः ॥ ४॥

कालाम्बुदाळिललितोरसि कैटभारेः धाराधरे स्फुरति या तडिदङ्गनेव ।
मातुस्समस्तजगतां महनीयमूर्तिः भद्राणि मे दिशतु भार्गवनन्दनायाः ॥ ५॥
प्राप्तं पदं प्रथमतः खलु यत्प्रभावान्- माङ्गल्यभाजि मधुमाथिनि मन्मथेन ।
मय्यापतेत्तदिह मन्थरमीक्षणार्धं मन्दालसं च मकरालयकन्यकायाः ॥ ६॥

विश्वामरेन्द्रपदविभ्रमदानदक्षं आनन्दहेतुरधिकं मुरविद्विषोऽपि ।
ईषन्निषीदतु मयि क्षणमीक्षणार्ध- मिन्दीवरोदरसहोदरमिन्दिरायाः ॥ ७॥
इष्टा विशिष्टमतयोऽपि यया दयार्द्र दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते ।
दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः ॥ ८॥

दद्याद्दयानुपवनो द्रविणाम्बुधारां अस्मिन्नकिञ्चनविहङ्गशिशौ विषण्णे ।
दुष्कर्मघर्ममपनीय चिराय दूरं नारायणप्रणयिनीनयनाम्बुवाहः ॥ ९॥
धीर्देवतेति गरुडध्वजसुन्दरीति गरुडध्वजभामिनीति शाकम्भरीति शशिशेखरवल्लभेति ।
सृष्टिस्थितिप्रलयकेलिषु संस्थितायै तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥ १०॥

श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै रत्यै नमोऽस्तु रमणीयगुणार्णवायै ।
शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥ ११॥
नमोऽस्तु नालीकनिभाननायै नमोऽस्तु दुग्धोदधिजन्मभूम्यै ।
नमोऽस्तु सोमामृतसोदरायै नमोऽस्तु नारायणवल्लभायै ॥ १२॥

नमोऽस्तु हेमाम्बुजपीठिकायै नमोऽस्तु भूमण्डलनायिकायै ।
नमोऽस्तु देवादिदयापरायै नमोऽस्तु शार्ङ्गायुधवल्लभायै ॥ १३॥
नमोऽस्तु देव्यै भृगुनन्दनायै नमोऽस्तु विष्णोरुरसि स्थितायै ।
नमोऽस्तु लक्ष्म्यै कमलालयायै नमोऽस्तु दामोदरवल्लभायै ॥ १४॥

नमोऽस्तु कान्त्यै कमलेक्षणायै नमोऽस्तु भूत्यै भुवनप्रसूत्यै ।
नमोऽस्तु देवादिभिरर्चितायै नमोऽस्तु नन्दात्मजवल्लभायै ॥ १५॥
सम्पत्कराणि सकलेन्द्रियनन्दनानि साम्राज्यदानविभवानि सरोरुहाक्षि ।
त्वद्वन्दनानि दुरिताहरणोद्यतानि मामेव मातरनिशं कलयन्तु मान्ये ॥ १६॥

यत्कटाक्षसमुपासनाविधिः सेवकस्य सकलार्थसम्पदः ।
संतनोति वचनाङ्गमानसैः त्वां मुरारिहृदयेश्वरीं भजे ॥ १७॥
सरसिजनिलये सरोजहस्ते धवळतमांशुकगन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ १८॥

दिग्घस्तिभिः कनककुम्भमुखावसृष्ट स्वर्वाहिनी विमलचारुजलप्लुताङ्गीम् ।
प्रातर्नमामि जगतां जननीमशेष लोकाधिनाथगृहिणीममृताब्धिपुत्रीम् ॥ १९॥
कमले कमलाक्षवल्लभे त्वं करुणापूरतरङ्गितैरपाङ्गैः ।
अवलोकय मामकिञ्चनानां प्रथमं पात्रमकृत्रिमं दयायाः ॥ २०॥

देवि प्रसीद जगदीश्वरि लोकमातः कल्यानगात्रि कमलेक्षणजीवनाथे ।
दारिद्र्यभीतिहृदयं शरणागतं मां आलोकय प्रतिदिनं सदयैरपाङ्गैः ॥ २१॥
स्तुवन्ति ये स्तुतिभिरमूभिरन्वहं त्रयीमयीं त्रिभुवनमातरं रमाम् ।
गुणाधिका गुरुतरभाग्यभागिनो भवन्ति ते भुवि बुधभाविताशयाः ॥ २२॥

॥ इति श्री कनकधारा स्तोत्रं सम्पूर्णम् ॥

आज का पंचांग ( Tue 20 May 2025 )

स्थान

अमृतसर, पंजाब, भारत

तिथि

  • सप्तमी, 19 May 2025 06:12:09 से 20 May 2025 05:52:14 तक
  • अष्टमी, 20 May 2025 05:52:15 से 21 May 2025 04:55:59 तक
  • नवमी, 21 May 2025 04:56:00 से 22 May 2025 03:22:25 तक

वार

मंगलवार

नक्षत्र

  • धनिष्ठा, 19 May 2025 19:29:57 से 20 May 2025 19:32:26 तक
  • शतभिषा, 20 May 2025 19:32:27 से 21 May 2025 18:58:14 तक

सूर्यौदय

20 May 2025 05:35:14

सूर्यास्त

20 May 2025 19:19:09

चंद्रोदय

20 May 2025 01:00:10

चंद्रस्थ

21 May 2025 13:02:45

योग

इन्द्र

20 May 2025 04:35:47 से 21 May 2025 02:50:12 तक

वैधृति

21 May 2025 02:50:13 से 22 May 2025 00:34:34 तक

शुभ काल

अभिजीत मुहूर्त

  • 20 May 2025 11:59:39 से 20 May 2025 12:54:34 तक

अमृत काल

  • 20 May 2025 09:15:57 से 20 May 2025 10:52:06 तक

ब्रह्म मुहूर्त

  • 20 May 2025 03:58:51 से 20 May 2025 04:46:49 तक

अशुभ काल

राहू

  • 20 May 2025 15:53:08 से 20 May 2025 17:36:07 तक

यम गण्ड

  • 20 May 2025 09:01:12 से 20 May 2025 10:44:11 तक

कुलिक

  • 20 May 2025 12:27:10 से 20 May 2025 14:10:09 तक

दुर्मुहूर्त

  • 20 May 2025 08:19:59 से 20 May 2025 09:14:54 तक
  • 20 May 2025 23:25:21 से 21 May 2025 00:06:23 तक

वर्ज्यम्

  • 21 May 2025 02:34:27 से 21 May 2025 04:08:27 तक