All Astrology Solutions

All Astrology Solutions

All Astrology Solutions
Shri Jwalamukhi Stotra

॥ श्री ज्वालामुखी स्तोत्र ॥
॥ Shri Jwalamukhi Stotra ॥

॥ ॐ गण गणपतये नमः ॥

श्रीभैरव उवाच
तारं यो भजते मातर्बीजं तव सुधाकरम् ।
पारावारसुता नित्यं निश्चला तद्गृहे वसेत् ॥ १॥

शून्यं यो दहनाधिरूढममलं वामाक्षिसंसेवितंसेन्दुं
बिन्दुयुतं भवानि वरदे स्वान्ते स्मरेत् साधकः ।
मूकस्यापि सुरेन्द्रसिन्धुजलवद्वाग्देवता भारती
गद्यः पद्यमयीं निरर्गलतरा मातर्मुखे तिष्ठति ॥ २॥

शुभं वह्न्यारूढं मतियुतमनल्पेष्टफलदंसबिन्द्वीन्दुं
मन्दो यदि जपति बीजं तव प्रियम् ।
तदा मातः स्वःस्त्रीजनविहरणक्लेशसहितः
सुखमिन्द्रोद्याने स्वपिति स भवत्पूजनरतः ॥ ३॥

ज्वालामुखीति जपते तव नामवर्णान्यः
साधको गिरिशपत्नि सुभक्तिपूर्वम् ।
तस्याङ्घ्रिपद्मयुगलं सुरनाथवेश्याः
सीमन्तरत्नकिरणैरनुरञ्जयन्ति ॥ ४॥

पाशाम्बुजाभयधरे मम सर्वशत्रून्शब्दं
त्विति स्मरति यस्तव मन्त्रमध्ये ।
तस्याद्रिपुत्रि चरणौ बहुपांसुयुक्तौ
प्रक्षालयन्त्यरिवधूनयनाश्रुपाताः ॥ ५॥

भक्षयद्वयमिदं यदि भक्त्या साधको जपति चेतसि मातः ।
स स्मरारिरिव त्वत्प्रसादतस्त्वत्पदं च लभते दिवानिशम् ॥ ६॥
कूर्चबीजमनघं यदि ध्यायेत् साधकस्तव महेश्वरि योऽन्तः ।
अष्ट हस्तकमलेषु सुवश्यास्तस्य त्र्यम्बकसमस्तसिद्धयः ॥ ७॥

ठद्वयं तव मनूत्तरस्थितं यो जपेत्तु परमप्रभावदम् ।
तस्य देवि हरिशङ्करादयः पूजयन्ति चरणौ दिवौकसः ॥ ८॥
ॐ ह्रीं श्रीं त्र्यक्षरे देवि सुरासुरनिसुदिनि ।
त्रैलोक्याभयदे मातर्ज्वालामुखि नमोऽस्तु ते ॥ ९॥

उदितार्कद्युते लक्ष्मि लक्ष्मीनाथसमर्चिते ।
वराम्बुजाभयधरे ज्वालामुखि नमोऽस्तु ते ॥ १०॥
सर्वसारमयि सर्वे सर्वामरनमस्कृते ।
सत्ये सति सदाचारे ज्वालामुखि नमोऽस्तु ते ॥ ११॥

यस्या मूर्ध्नि शशी त्रिलोचनगता यस्या रवीन्द्वग्नयः
पाशाम्भोजवराभयाः करतलाम्भोजेषु सद्धेतयः ।
गात्रे कुङ्कुमसन्निभा द्युतिरहिर्यस्यागले सन्ततं देवीं
कोटिसहस्ररश्मिसदृशीं ज्वालामुखीं नौम्यहम् ॥ १२॥

निद्रां नो भजते विधिर्भगवति शङ्का शिवं नो त्यजेद्
विष्णुर्व्याकुलतामलं कमलिनीकान्तोऽपि धत्ते भयम् ।
दृष्ट्वा देवि त्वदीयकोपदहनज्वालां ज्वलन्ति तदा देवः
कुङ्कुमपीतगण्डयुगलः संक्रन्दनः क्रन्दति ॥ १३॥

यामाराध्य दिवानिशं सुरसरित्तीरे स्तवैरात्मभू-
रुद्यद्भास्वरघर्मभानुसदृशीं प्राप्तोऽमरज्येष्ठताम् ।
दारिद्र्योरगदष्टलोकत्रितयीसञ्जिवनीं मातरं देवीं
तां हृदये शशाङ्कशकलाचूडावतंसा भजे ॥ १४॥

आपीनस्तनश्रोणिभारनमितां कन्दर्पदर्पोज्ज्वलां
लावण्याङ्कितरम्यगण्डयुगलां यस्त्वां स्मरेत् साधकः ।
वश्यास्तस्य धराभृदीश्वरसुते गीर्वाणवामभ्रुवः
पादाम्भोजतलं भजन्ति त्रिदशा गन्धर्वसिद्धादयः ॥ १५॥

हृत्वा देवि शिरो विधेर्यदकरोत् पात्रं कराम्भोरुहे
शूलप्रोतममुं हरिं व्यगमयत् सद्भूषणं स्कन्धयोः ।
कालान्ते त्रितयं मुखेन्दुकुहरे शम्भोः शिरः पार्वति
तन्मातर्भुवने विचित्रमखिलं जाने भक्त्याः शिवे ॥ १६॥

गायत्री प्रकृतिर्गलेऽपि विधृता सा त्वं शिवे वेधसा
श्रीरूपा हरिणापि वक्षसि धृताप्यर्धाङ्गभागे तथा ।
शर्वेणापि भवानि देवि सकलाः ख्यातुं न शक्ता वयं
त्वद्रूपं हृदि मादृशां जडधियां ध्यातुं कथैवास्ति का ॥ १७॥

ज्वालामुखीस्तवमिमं पठते यदन्तः श्रीमन्त्रराजसहितं विभवैकहेतुम् ।
इष्टप्रदानसमये भुवि कल्पवृक्षं स्वर्गं व्रजेत् सुरवधूजनसेवितः सः ॥ १८॥

॥ इति श्री ज्वालामुखी स्तोत्रं सम्पूर्णम् ॥

आज का पंचांग ( Tue 20 May 2025 )

स्थान

अमृतसर, पंजाब, भारत

तिथि

  • सप्तमी, 19 May 2025 06:12:09 से 20 May 2025 05:52:14 तक
  • अष्टमी, 20 May 2025 05:52:15 से 21 May 2025 04:55:59 तक
  • नवमी, 21 May 2025 04:56:00 से 22 May 2025 03:22:25 तक

वार

मंगलवार

नक्षत्र

  • धनिष्ठा, 19 May 2025 19:29:57 से 20 May 2025 19:32:26 तक
  • शतभिषा, 20 May 2025 19:32:27 से 21 May 2025 18:58:14 तक

सूर्यौदय

20 May 2025 05:35:14

सूर्यास्त

20 May 2025 19:19:09

चंद्रोदय

20 May 2025 01:00:10

चंद्रस्थ

21 May 2025 13:02:45

योग

इन्द्र

20 May 2025 04:35:47 से 21 May 2025 02:50:12 तक

वैधृति

21 May 2025 02:50:13 से 22 May 2025 00:34:34 तक

शुभ काल

अभिजीत मुहूर्त

  • 20 May 2025 11:59:39 से 20 May 2025 12:54:34 तक

अमृत काल

  • 20 May 2025 09:15:57 से 20 May 2025 10:52:06 तक

ब्रह्म मुहूर्त

  • 20 May 2025 03:58:51 से 20 May 2025 04:46:49 तक

अशुभ काल

राहू

  • 20 May 2025 15:53:08 से 20 May 2025 17:36:07 तक

यम गण्ड

  • 20 May 2025 09:01:12 से 20 May 2025 10:44:11 तक

कुलिक

  • 20 May 2025 12:27:10 से 20 May 2025 14:10:09 तक

दुर्मुहूर्त

  • 20 May 2025 08:19:59 से 20 May 2025 09:14:54 तक
  • 20 May 2025 23:25:21 से 21 May 2025 00:06:23 तक

वर्ज्यम्

  • 21 May 2025 02:34:27 से 21 May 2025 04:08:27 तक