All Astrology Solutions

All Astrology Solutions

All Astrology Solutions
Shri Guru Kavach

॥ श्री गुरु कवचम् ॥
॥ Shri Guru Kavach ॥

॥ ॐ गण गणपतये नमः ॥

॥ श्रीईश्वर उवाच ॥
श्रृणु देवि! प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् ।
लोकोपकारकं प्रश्नं न केनापि कृतं पुरा ॥ १॥
अद्य प्रभृति कस्यापि न ख्यातं कवचं मया ।
देशिकाः बहवः सन्ति मन्त्रसाधनतत्पराः ॥ २॥

न तेषां जायते सिद्धिः मन्त्रैर्वा चक्रपूजनैः ।
गुरोर्विधानं कवचमज्ञात्वा क्रियते जपः ।
वृथाश्रमो भवेत् तस्य न सिद्धिर्मन्त्रपूजनैः ॥ ३॥

गुरुपादं पुरस्कृत्य प्राप्यते कवचं शुभम् ।
तदा मन्त्रस्य यन्त्रस्य सिद्धिर्भवति तत्क्षणात् ।
सुगोप्यं तु प्रजप्तव्यं न वक्तव्यं वरानने ॥ ४॥

॥ विनियोगः ॥
ॐ नमोऽस्य श्रीगुरुकवचनाममन्त्रस्य परमब्रह्म ऋषिः
सर्ववेदानुज्ञो देवदेवो श्री आदिशिवः देवता नमो हसौं हंसः
ह-स-क्ष-म-ल-व-र-यूं सोऽहं हंसः बीजंस-ह-क्ष-म-ल-व-र-यीं
शक्तिः हंसः सोऽहं कीलकं समस्तश्रीगुरुमण्डलप्रीत्यर्थे जपे विनियोगः ।

॥ ऋष्यादिन्यासः ॥
श्रीपरमब्रह्मर्षये नमः शिरसि ।
सर्ववेदानुज्ञदेवदेव श्री आदिशिवदेवतायै नमः हृदि ।
नमः हसौं हंसः ह-स-क्ष-म-ल-व-र-यूं सोऽहं हंसः बीजाय नमः गुह्ये ।
स-ह-क्ष-म-ल-व-र-यीं शक्तये नमः नाभौ । हंसः सोऽहं कीलकाय नमः पादयोः ।
समस्तश्रीगुरुमण्डलप्रीत्यर्थे जपे विनियोगाय नमः अञ्जलौ ।

॥ अथ षडङ्गन्यासः ॥
ॐ हसाम् । ॐ हसीम् । ॐ हसूम् ।
ॐ हसैम् । ॐ हसौम् । ॐ हसः ।

॥ अथ करन्यासः ॥
ॐ हसां अङ्गुष्ठाभ्यां नमः ।
ॐ हसीं तर्जनीभ्यां नमः ।
ॐ हसूं मध्यमाभ्यां नमः ।
ॐ हसैं अनामिकाभ्यां नमः ।
ॐ हसौं कनिष्ठाभ्यां नमः ।
ॐ हसः करतलकरपृष्ठाभ्यां नमः ।

॥ अथ अङ्गन्यासः ॥
ॐ हसां हृदयाय नमः ।
ॐ हसीं शिरसे स्वाहा ।
ॐ हसूं शिखायै वषट् ।
ॐ हसैं कवचाय हुं ।
ॐ हसौं नेत्रत्रयाय वौषट् ।
ॐ हसः अस्त्राय फट् ।

॥ ध्यानम् ॥
श्रीसिद्धमानवमुखा गुरवः स्वरूपं संसारदाहशमनं द्विभुजं त्रिनेत्रम् ।
वामाङ्गशक्तिसकलाभरणैर्विभूषं ध्यायेज्जपेत् सकलसिद्धिफलप्रदं च ॥

॥ मानसपूजन ॥
लं पृथिव्यात्मकं गन्धतन्मात्रप्रकृत्यात्मकं
गन्धं सशक्तिकाय श्रीगुरवे समर्पयामि नमः ।
हं आकाशात्मकं शब्दतन्मात्रप्रकृत्यात्मकं
पुष्पं सशक्तिकाय श्रीगुरवे समर्पयामि नमः ।

यं वाय्वात्मकं स्पर्शतन्मात्रप्रकृत्यात्मकं
धूपं सशक्तिकाय श्रीगुरवे घ्रापयामि नमः ।
रं वह्न्यात्मकं रूपतन्मत्रप्रकृत्यात्मकं
दीपं सशक्तिकाय श्रीगुरवे समर्पयामि नमः ।

वं अमृतात्मकं रसतन्मात्रप्रकृत्यात्मकं
नैवेद्यं सशक्तिकाय श्रीगुरवे समर्पयामि नमः ।
सं सर्वात्मिकां ताम्बूलादिसर्वोपचार
पूजांसशक्तिकाय श्रीगुरवे समर्पयामि नमः ।

॥ कवचस्तोत्रम् ॥
ॐ नमः प्रकाशानन्दनाथः तु शिखायां पातु मे सदा ।
परशिवानन्दनाथः शिरो मे रक्षयेत् सदा ॥ १॥
परशक्तिदिव्यानन्दनाथो भाले च रक्षतु ।
कामेश्वरानन्दनाथो मुखं रक्षतु सर्वधृक् ॥ २॥

दिव्यौघो मस्तकं देवि! पातु सर्वशिरः सदा ।
कण्ठादिनाभिपर्यन्तं सिद्धौघा गुरवः प्रिये ॥ ३॥
भोगानन्दनाथ गुरुः पातु दक्षिणबाहुकम् ।
समयानन्दनाथश्च सन्ततं हृदयेऽवतु ॥ ४॥

सहजानन्दनाथश्च कटिं नाभिं च रक्षतु ।
एष स्थानेषु सिद्धौघाः रक्षन्तु गुरवः सदा ॥ ५॥
अधरे मानवौघाश्च गुरवः कुलनायिके !
गगनानन्दनाथश्च गुल्फयोः पातु सर्वदा ॥ ६॥

नीलौघानन्दनाथश्च रक्षयेत् पादपृष्ठतः ।
स्वात्मानन्दनाथगुरुः पादाङ्गुलीश्च रक्षतु ॥ ७॥
कन्दोलानन्दनाथश्च रक्षेत् पादतले सदा ।
इत्येवं मानवौघाश्च न्यसेन्नाभ्यादिपादयोः ॥ ८॥

गुरुर्मे रक्षयेदुर्व्यां सलिले परमो गुरुः ।
परापरगुरुर्वह्नौ रक्षयेत् शिववल्लभे ॥ ९॥
परमेष्ठीगुरुश्चैव रक्षयेत् वायुमण्डले ।
शिवादिगुरवः साक्षात् आकाशे रक्षयेत् सदा ॥ १०॥

इन्द्रो गुरुः पातु पूर्वे आग्नेयां गुरुरग्नयः ।
दक्षे यमो गुरुः पातु नैऋत्यां निऋतिर्गुरुः ॥ ११॥
वरुणो गुरुः पश्चिमे वायव्यां मारुतो गुरुः ।
उत्तरे धनदः पातु ऐशान्यामीश्वरो गुरुः ॥ १२॥

ऊर्ध्वं पातु गुरुर्ब्रह्मा अनन्तो गुरुरप्यधः ।
एवं दशदिशः पान्तु इन्द्रादिगुरवः क्रमात् ॥ १३॥
शिरसः पादपर्यन्तं पान्तु दिव्यौघसिद्धयः ।
मानवौघाश्च गुरवो व्यापकं पान्तु सर्वदा ॥ १४॥

सर्वत्र गुरुरूपेण संरक्षेत् साधकोत्तमम् ।
आत्मानं गुरुरूपं च ध्यायेन् मन्त्रं सदा बुधः ॥ १५॥

॥ फलश्रुतिः ॥
इत्येवं गुरुकवचं ब्रह्मलोकेऽपि दुर्लभम् ।
तव प्रीत्या मया ख्यातं न कस्य कथितं प्रिये ॥ १॥
पूजाकाले पठेद् यस्तु जपकाले विशेषतः ।
त्रैलोक्यदुर्लभं देवि । भुक्तिमुक्तिफलप्रदम् ॥ २॥

सर्वमन्त्रफलं तस्य सर्वयन्त्रफलं तथा ।
सर्वतीर्थफलं देवि । यः पठेत् कवचं गुरोः ॥ ३॥
अष्टगन्धेन भूर्जे च लिख्यते चक्रसंयुतम् ।
कवचं गुरुपङ्क्तेस्तु भक्त्या च शुबवासरे ॥ ४॥

पूजयेत् धूपदीपाद्यैः सुधाभिः सितसंयुतैः ।
तर्पयेत् गुरुमन्त्रेण साधकः शुद्धचेतसा ॥ ५॥
धारयेत् कवचं देवि! इह भूतभयापहम् ।
पठेन्मन्त्री त्रिकालं हि स मुक्तो भवबन्धनात् ।
एवं कवचं परमं दिव्यसिद्धौघकलावान् ॥ ६॥

॥ इति श्री गुरु कवचं सम्पूर्णम् ॥

आज का पंचांग ( Fri 13 Jun 2025 )

स्थान

अमृतसर, पंजाब, भारत

तिथि

  • द्वितीया, 12 Jun 2025 14:28:19 से 13 Jun 2025 15:19:23 तक
  • तृतीया, 13 Jun 2025 15:19:24 से 14 Jun 2025 15:47:17 तक

वार

शुक्रवार

नक्षत्र

  • पूर्वाषाढ़ा, 12 Jun 2025 21:57:12 से 13 Jun 2025 23:20:53 तक
  • उत्तराषाढ़ा, 13 Jun 2025 23:20:54 से 15 Jun 2025 00:21:58 तक

सूर्यौदय

13 Jun 2025 05:29:17

सूर्यास्त

13 Jun 2025 19:32:00

चंद्रोदय

13 Jun 2025 21:42:31

चंद्रस्थ

14 Jun 2025 07:44:43

योग

शुक्ल

12 Jun 2025 14:04:51 से 13 Jun 2025 13:47:50 तक

ब्रह्म

13 Jun 2025 13:47:51 से 14 Jun 2025 13:12:42 तक

शुभ काल

अभिजीत मुहूर्त

  • 13 Jun 2025 12:02:27 से 13 Jun 2025 12:58:37 तक

अमृत काल

  • 13 Jun 2025 18:15:12 से 13 Jun 2025 19:56:46 तक

ब्रह्म मुहूर्त

  • 13 Jun 2025 03:53:15 से 13 Jun 2025 04:41:15 तक

अशुभ काल

राहू

  • 13 Jun 2025 10:45:17 से 13 Jun 2025 12:30:37 तक

यम गण्ड

  • 13 Jun 2025 16:01:17 से 13 Jun 2025 17:46:37 तक

कुलिक

  • 13 Jun 2025 07:14:37 से 13 Jun 2025 08:59:57 तक

दुर्मुहूर्त

  • 13 Jun 2025 08:17:47 से 13 Jun 2025 09:13:57 तक
  • 13 Jun 2025 12:58:37 से 13 Jun 2025 13:54:47 तक

वर्ज्यम्

  • 13 Jun 2025 08:06:12 से 13 Jun 2025 09:48:12 तक