All Astrology Solutions

All Astrology Solutions

All Astrology Solutions
Shri Chinnamasta Stotra

॥ श्री छिन्नमस्ता स्तोत्र ॥
॥ Shri Chinnamasta Stotra ॥

॥ ॐ गण गणपतये नमः ॥

आनन्दयित्रि परमेश्वरि वेदगर्भे मातः पुरन्दरपुरान्तरलब्धनेत्रे ।
लक्ष्मीमशेषजगतां परिभावयन्तः सन्तो भजन्ति भवतीं धनदेशलब्ध्यै ॥ १॥
लज्जानुगां विमलविद्रुमकान्तिकान्तां कान्तानुरागरसिकाः परमेश्वरि त्वाम् ।
ये भावयन्ति मनसा मनुजास्त एते सीमन्तिनीभिरनिशं परिभाव्यमानाः ॥ २॥

मायामयीं निखिलपातककोटिकूटविद्राविणीं भृशमसंशयिनो भजन्ति ।
त्वां पद्मसुन्दरतनुं तरुणारुणास्यां पाशाङ्कुशाभयवराद्यकरां वरास्त्रैः ॥ ३॥
ते तर्ककर्कशधियः श्रुतिशास्त्रशिल्पैश्छन्दोऽ-भिशोभितमुखाः सकलागमज्ञाः ।
सर्वज्ञलब्धविभवाः कुमुदेन्दुवर्णांये वाग्भवे च भवतीं परिभावयन्ति ॥ ४॥

वज्रपणुन्नहृदया समयद्रुहस्तेवैरोचने मदनमन्दिरगास्यमातः ।
मायाद्वयानुगतविग्रहभूषिताऽसिदिव्यास्त्रवह्निवनितानुगताऽसि धन्ये ॥ ५॥
वृत्तत्रयाष्टदलवह्निपुरःसरस्य मार्तण्डमण्डलगतां परिभावयन्ति ।
ये वह्निकूटसदृशीं मणिपूरकान्तस्ते कालकण्टकविडम्बनचञ्चवः स्युः ॥ ६॥

कालागरुभ्रमरचन्दनकुण्डगोल-खण्डैरनङ्गमदनोद्भवमादनीभिः ।
सिन्दूरकुङ्कुमपटीरहिमैर्विधाय सन्मण्डलं तदुपरीह यजेन्मृडानीम् ॥ ७॥
चञ्चत्तडिन्मिहिरकोटिकरां विचेला-मुद्यत्कबन्धरुधिरां द्विभुजां त्रिनेत्राम् ।
वामे विकीर्णकचशीर्षकरे परे तामीडे परं परमकर्त्रिकया समेताम् ॥ ८॥

कामेश्वराङ्गनिलयां कलया सुधांशोर्विभ्राजमानहृदयामपरे स्मरन्ति ।
सुप्ताहिराजसदृशीं परमेश्वरस्थां त्वामाद्रिराजतनये च समानमानाः ॥ ९॥
लिङ्गत्रयोपरिगतामपि वह्निचक्र-पीठानुगां सरसिजासनसन्निविष्टाम् ।
सुप्तां प्रबोध्य भवतीं मनुजा गुरूक्तहूँकारवायुवशिभिर्मनसा भजन्ति ॥ १०॥।

शुभ्रासि शान्तिककथासु तथैव पीता स्तम्भे रिपोरथ च शुभ्रतरासि मातः ।
उच्चाटनेऽप्यसितकर्मसुकर्मणि त्वं संसेव्यसे स्फटिककान्तिरनन्तचारे ॥ ११॥
त्वामुत्पलैर्मधुयुतैर्मधुनोपनीतैर्गव्यैः पयोविलुलितैः शतमेव कुण्डे ।
साज्यैश्च तोषयति यः पुरुषस्त्रिसन्ध्यं षण्मासतो भवति शक्रसमो हि भूमौ ॥ १२॥

जाग्रत्स्वपन्नपि शिवे तव मन्त्रराजमेवं विचिन्तयति यो मनसा विधिज्ञः ।
संसारसागरसमृद्धरणे वहित्रं चित्रं न भूतजननेऽपि जगत्सु पुंसः ॥ १३॥
इयं विद्या वन्द्या हरिहरविरिञ्चिप्रभृतिभिः पुरारातेरन्तः पुरमिदमगम्यं पशुजनैः ।
सुधामन्दानन्दैः पशुपतिसमानव्यसनिभिः सुधासेव्यैः सद्भिर्गुरुचरणसंसारचतुरैः ॥ १४॥

कुण्डे वा मण्डले वा शुचिरथ मनुना भावयत्येव मन्त्री
संस्थाप्योच्चैर्जुहोति प्रसवसुफलदैः पद्मपालाशकानाम् ।
हैमं क्षीरैस्तिलैर्वां समधुककुसुमैर्मालतीबन्धुजातीश्वेतैरब्धं
सकानामपि वरसमिधा सम्पदे सर्वसिद्ध्यै ॥ १५॥

अन्धः साज्यं समांसं दधियुतमथवा योऽन्वहं यामिनीनां
मध्ये देव्यै ददाति प्रभवति गृहगा श्रीरमुष्यावखण्डा ।
आज्यं मांसं सरक्तं तिलयुतमथवा तण्डुलं पायसं वा
हुत्वा मांसं त्रिसन्ध्यं स भवति मनुजो भूतिभिर्भूतनाथः ॥ १६॥

इदं देव्याः स्तोत्रं पठति मनुजो यस्त्रिसमयं
शुचिर्भूत्वा विश्वे भवति धनदो वासवसमः ।
वशा भूपाः कान्ता निखिलरिपुहन्तुः सुरगणा
भवन्त्युच्चैर्वाचो यदिह ननु मासैस्त्रिभिरपि ॥ १७॥

॥ इति श्री छिन्नमस्ता स्तोत्रम् सम्पूर्णम ॥

आज का पंचांग ( Wed 24 Jun 2026 )

स्थान

अमृतसर, पंजाब, भारत

तिथि

  • दशमी, 23 Jun 2026 16:40:12 से 24 Jun 2026 18:12:50 तक
  • एकादशी, 24 Jun 2026 18:12:51 से 25 Jun 2026 20:09:53 तक

वार

बुधवार

नक्षत्र

  • चित्रा, 23 Jun 2026 11:53:57 से 24 Jun 2026 13:59:05 तक
  • स्वाति, 24 Jun 2026 13:59:06 से 25 Jun 2026 16:29:14 तक

सूर्यौदय

24 Jun 2026 05:31:00

सूर्यास्त

24 Jun 2026 19:34:49

चंद्रोदय

24 Jun 2026 14:51:49

चंद्रस्थ

25 Jun 2026 01:43:18

योग

परिघ

23 Jun 2026 10:13:07 से 24 Jun 2026 10:22:46 तक

शिव

24 Jun 2026 10:22:47 से 25 Jun 2026 10:53:22 तक

शुभ काल

अमृत काल

  • 24 Jun 2026 07:32:57 से 24 Jun 2026 09:17:17 तक

ब्रह्म मुहूर्त

  • 24 Jun 2026 03:54:45 से 24 Jun 2026 04:42:45 तक

अशुभ काल

राहू

  • 24 Jun 2026 12:32:52 से 24 Jun 2026 14:18:20 तक

यम गण्ड

  • 24 Jun 2026 07:16:28 से 24 Jun 2026 09:01:56 तक

कुलिक

  • 24 Jun 2026 10:47:24 से 24 Jun 2026 12:32:52 तक

दुर्मुहूर्त

  • 24 Jun 2026 12:04:45 से 24 Jun 2026 13:01:00 तक

वर्ज्यम्

  • 24 Jun 2026 20:10:06 से 24 Jun 2026 21:56:06 तक